जीवन्तु साधुतरवः सुकृताम्बुसिक्ता
नश्यन्तु पङ्कपतिताः खलपांशवोऽपि ।
ये धारयन्त्य् अनुगतोपकृतिव्रतानि
यैः सन्निधौ परगुणा मलिनीक्रियन्ते ॥२१८१॥
सङ्केतस्य ।
सत्सङ्गाद् भवति हि साधुता खलानां
साधूनां न तु खलसङ्गमात् खलत्वम् ।
आमोदं कुसुमभवं मृद् एव धत्ते
मृद्गन्धं न तु कुसुमानि धारयन्ति ॥२१८२॥
प्रभाकरमित्रस्य ।
ये कारुण्यपरिग्रहाद् अगणितस्वार्थाः परार्थं प्रति
प्राणैर् अप्य् अपकुर्वते व्यसनिनस् ते साधवो दूरतः ।
विद्वेषानुगमाद् अनूर्जितकृपो रूक्षो जनो वर्तते
चक्षुः संहर बाष्पवेगम् अधुना कस्याग्रतो रुद्यते ॥२१८३॥
श्रीहर्षस्य । (सु।र। १४९९)
शिशुत्वव्यामोहात् कलयसि न चेत् तत्त्वम् अनयोस्
तदा स्तोकं ब्रूमः परिचिनु वचस् त्वं सदसतोः ।
सतां स्वान्तं यत् तन् मधुमधुरम् अन्तः कटु बहिर्
बहिः स्वादु स्वच्छं विषविषमम् अन्तस् तद् असताम् ॥२१८४॥
जियोकस्य ।
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना
छायेव मैत्री खलु सज्जनानाम् ॥२१८५॥