वायूद्गारगतिस् ततः परिणतिः सृष्टेर् अहो कौशलं
वायुः श्लोक इहैव सन्ति सकलाः काव्यस्य ते ते गुणाः ।
कस्यायं मम हुं तथैव शृणुमः सम्यक् पुनः पठ्यतां
जानामि स्फुटतात्र नास्ति भणितं चान्यैः पुराणं पठ ॥२१६१॥
कस्यचित् ।
द्राक्षापाकविडम्बिनीम् अपि गिरं मात्सर्यदाहज्वरा
न्नाचामन्ति मनाग् अरोचकपराधीनाः कियन्तो जनाः ।
आकण्ठं परिपीय सत्कविगवीपीयूषम् अन्ये पुनर्
नो माद्यन्ति यशःशरीरपिशितत्रासाय बद्धस्पृहाः ॥२१६२॥
जलचन्द्रस्य ।
भ्राम्यन्ति कुतुकावलम्बितमनाः सारखतानाश्रमान्
अस्मै वाणि विधेहि दुर्जनमरुस्थानाय दूरे नमः ।
न प्राणन्ति यदर्पणाद् इह गुणाः कामं यशोवल्लयः
खिद्यन्ते सरसापि सत्कविरसस्रोतस्वती सीदति ॥२१६३॥
तस्यैव ।
क्व रसिक रसदा रसालवल्ली
क्व च रसकण्टकसङ्कटोयमध्वा ।
रचयसि रुचिराणि वाणि मोहाद्
इह सुकुमारपदानि हा हतासि ॥२१६४॥
रामदासस्य ।
ईषन्नासानिकोचः स्वरमुखरसुखप्रेक्षणं हासलेशः
स्वाबोधाद् अप्रसादध्वननम् असदवद्योक्तिहेलावहेला ।
मौनव्यासङ्गवार्तान्तरपररुचिरश्लोकपाठादयस् ते
सोढव्याः के कियन्तः शिव शिव कवि ते कुच्छला मत्सराणाम् ॥२१६५॥
कविपण्डितश्रीहर्षस्य ॥