०३२ काव्यम्

यद् एतद्वागर्थव्यतिकरमयं किञ्चिद् अमृतं
तद् आनन्दस्यन्दैः सहृदयमनांसि स्नपयति ।
इदं काव्यं तत्त्वं स्फुरति तु यद् अत्रानुपरमं
तद् अन्तर्बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः ॥२१५६॥

हृषीकेशस्य (सु।र। १७१५, सू।मु। ४।३४)

कवलयति न चेतस् तस्य दारिद्र्यदुःखं
न च पिशुनजनोक्तिः कर्णकण्डूं करोति ।
वरकविकृतगोष्ठीबन्धगन्धोपभोगे
य इह मधु वमन्तीं काव्यचिन्तां करोति ॥२१५७॥

व्याडेः ।

एतत् कवीन्द्रमुखचन्द्रमसः कदाचित्
काव्याभिधानम् अमृतं यदि नागालिष्यत् ।
संसारिणां विविधदुःखसहस्रभाजां
चेतोविनोदसदनं किम् इहाभविष्यत् ॥२१५८॥

सुरभेः ।

ते वर्णाः सपदक्रमास् तद् अभिधावैदग्ध्यम् अव्याहृतं
गुम्फः कोऽपि सपक्त्रिमः सहृदयास्वाद्यो रसः कोऽप्य् असौ ।
हे सभ्याः परिभाव्य मादृशकृतीर् ब्रूत क्वचिन् निष्कृतं
किं तत्रास्त्य् अपरं पुरातनकवेर् येनैष कोलाहलः ॥२१५९॥

गोसोकस्य ।

अनुद्घुष्टः शब्दैर् अथ च घटनात् प्रस्फुटरसः
पदानाम् अर्थात्मा रमयति नतूत्तानितरसः ।
यथा किञ्चिद् दृश्यः पवनचलचीनांशुकतया
स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रितवपुः ॥२१६०॥

धर्माशोकस्य । (सु।र। १७०५)