०२९ कविदानं

निष्पन्ने सति चन्द्रचूडचरिते तत्तन्नृपप्रक्रिया
जातैः सार्धम् अरातिराजकशिरोरत्नाञ्जलीनां त्रयम् ।
सप्तस्वर्णशतानि विंशतिशतीरूप्यस्य लक्षत्रयं
ग्रामाणां शतम् अन्तरङ्गकवये चाणक्यचन्द्रो ददौ ॥२१४१॥

उमापतिधरस्य ।

दन्तिव्यूहं कनककलितं चामरे हेमदण्डं
यो गौडेन्द्राद् अलभत कविक्ष्माभृतां चक्रवर्ती ।
ख्यातो यश् च श्रुतिधरतया विक्रमादित्यगोष्ठी
विद्याभर्तुः खलु वररुचेर् आससाद प्रतिष्ठाम् ॥२१४२॥

धोयीकस्य ।
कनककुन्डलमण्डितभाषिणे
शकरिपुर् विषयान् दश विद्विषः ।
मगधकेकयकेरलकोशलान्
करिशतं च मदालसलोचनम् ॥२१४३॥

अमरोः ।

अमुष्मै चौराय प्रतिनिहतमृत्युप्रतिभिये
प्रभुः प्रीतः प्रादाद् उपरितनपादद्वयकृते ।
सुवर्णानां कोटीर् दश दशनकोटिक्षतगिरीन्
गजेन्द्रानप्य् अष्टौ मदमुदितकूजन् मधुलिहः ॥२१४४॥

तस्यैव ।

श्लोकोऽयं हरिषाभिधानकविना देवस्य तस्याग्रतो
यावद् यावद् उदीरितः शकवधूवैधव्यदीक्षागुरोः ।
तावत् तावद् उपोढसान्द्रपुलकस् तस्मै स देवो ददौ
लक्षं लक्षम् अखण्डितं मधुकरव्यालोलगण्डं गजम् ॥२१४५॥

तस्यैव ।