०२८ मनस्विकविः

विन्यस्ता विकचप्रसूनघटनाचार्येण कण्ठोचिता
मालेयं भुजगभ्रमेण भवता जन्मान्ध किं धूयते ।
एतस्याः क्षतिर् अस्तु नाम कियती संवीतहासोद्गमास्
त्वाम् अन्योन्यकरार्पणप्रणयिनः पश्यन्ति विश्वे जनाः ॥२१३६॥

जलचन्द्रस्य ।

अवधेहि क्षणम् एहि भ्रातर् भावज्ञ भावय गिरं नः ।
चरमे चकास्ति चेतसि मूकस्वप्नोपमो भावः ॥२१३७॥

गोसोकस्य ।

स्तम्भावधेहि निमिषं पठामि सूक्तीः स्वचित्तनिर्वृत्तये ।
मा बुध्यस्व न तावद् वाग् उल्काभिः कदर्थयसि ॥२१३८॥

वल्लणस्य ।

श्रीमद्भिर् द्रविणव्ययव्यतिकरक्लेशाद् अवज्ञायसे
द्वेषान् भःपरिपूर्णकर्णकुहरैर् नाकर्ण्यसे सूरिभिः ।
इत्थं व्यर्थितवाञ्छितेषु हि मुधैवास्मासु किं खिद्यसे
मातः काव्यसुधे कथं क्व भवतीम् उन्मुद्रयामो वयम् ॥२१३९॥

तस्यैव ।

अर्वाचीनवचः प्रपञ्चसुखिनां दुःशिक्षितानां पुरो
गम्भीरं कविपुङ्गवस्य किम् अहो सर्वस्वम् उद्धाट्यते ।
व्यर्थं कर्दमगन्धगौरवहृतग्रामीणगोष्ठीमुखे
कोऽयं नाम सचेतनोऽस्ति य इह प्रस्तौति कस्तूरिकाम् ॥२१४०॥

तस्यैव ।