विकचकुमुदक्रीडक्रीडन् मधुव्रतझाङ्कृतेएर्
मदकलकुहूकण्ठोत्कण्ठाविपञ्चितपञ्चमाम् ।
अभिनववधूप्रेमालापाद् अपि श्रुतिसम्मदं
विदधति कवेर् दङ्कस्यैताः सुधामधुरा गिरः ॥२१३१॥
दङ्कस्य ।
प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने
प्रसत्तौ गाम्भीर्ये रसवति च काव्यार्थरचने ।
अगम्यायाम् अन्यैर् दिशि परिणतैर् अर्थवचसोर्
मतं चेद् अस्माकं कविर् अमरसिंहो विजयते ॥२१३२॥
शालिकनाथस्य । (सु।र। १७२४)
पातु कर्णरसायनं रचयितुं वाचः सतां सम्मता
व्युत्पत्तिं परमाम् अवाप्तुम् अवधिं लब्धुं रसस्रोतसः ।
भोक्तुं स्वादु फलं च जीविततरोर् यद्य् अस्ति ते कौतुकं
तद् भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दनीः ॥२१३३॥
शङ्करवर्मणः । (बा।रा। १।१७, वि।शा।भ। १।१७, सु।र। १७००)
धिग् धिक् तान् समयान् परिश्रमरुजो वक्तुं गिरो नीरसा
यत्रामूर् निपतन्ति वल्लणगुणोत्खातामृतप्रीतयः ।
रोम्णां नृत्यभुवो विलोचनपयःपूराब्धिचन्द्रोदयाः
साहित्यप्रतिगण्डगर्वगलनं ग्लानिक्रियाहेतवः ॥२१३४॥
वल्लणस्य । (सु।र। १७०३)
देवीं वाचम् उपासते हि बहवः सारं तु सारस्वतं
जानीते नितराम् असौ गुरुकुलक्लिष्टो मुरारिः कविः ।
आब्धर् लङ्घित एव वानरभटैः किं त्व् अस्य गम्भीर्ताम्
आपातालनिमग्नपीवरतनुर् जानाति मन्थाचलः ॥२१३५॥
मुरारेः । (कुवल्, प्। ५८; सु।र। १७०१)