बाणः सृष्टिम् अपूर्ववस्तुविषयाम् एकोऽत्र निर्व्यूढवान्
निष्णातः कविकुञ्जरेन्द्रचरिते मार्गे गिरां वा गुरुः ।
वेधा विन्ध्यपुलिन्दपामरवधूभूगोलझञ्झानिल
प्रायेऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः ॥२१२६॥
भवानन्दस्य । (सु।र। १६९९)
अस्तङ्गतभारविरवि कालवशात् कालिदासविधुविधुरम् ।
निर्वाणबाणदीपं जगद् इदम् अद्योति रत्नेन ॥२१२७॥
भोजदेवस्य । (सु।र। १७०६)
बाणः प्राणिति केशटः स्फुटम् असौ जागर्ति योगेश्वरः
प्रत्युज्जीवति राजशेखरगिरां सौरभ्यम् उन्मीलति ।
येनायं कलिकालपुष्पधनुषो देवस्य शिक्षावशाद्
आकल्पं वसुकल्प एव वचसि प्रागल्भ्यम् अभ्यस्यति ॥२१२८॥
वसुकल्पस्य ।
उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा
यश् चीर्णः कमलायुधेन सुचिरं येनागमत् केशटः ।
यः श्रीवाक्पतिराजपादरजसां सम्पर्कपूतश् चिरं
दिष्ट्या श्लाघ्यगुणस्य कस्यचिद् असौ मार्गः समुन्मीलति ॥२१२९॥
अभिनन्दस्य । (सु।र। १७३३)
सुबन्धौ भक्तिर् नः क इह रघुकारे न रमते
धृतिर् दाक्षीपुत्रे हरति हरिचन्द्रोऽपि हृदयम् ।
विशुद्धोक्तिः शूरः प्रकृतिमधुरा भावविगिरस्
तथाप्य् अन्तर् मोदं कम् अपि भवभूतिर् वितनुते ॥२१३०॥
कस्यचित् । (सु।र। १६९८)