एकस्मिन्न् अवपातितेऽपि शिरसि क्रोधोपशान्तिः कुतः
किन्तु स्वानुनयाय मूर्धनिधनं दृष्टं न यत्रारिणा ।
त्वत्तो मूर्धबहुत्वतः फलम् इदं सम्यङ् मया लभ्यते
छिन्नं छिन्नम् अवेक्ष्य राक्षसपते स्वं दुर्नयं ज्ञास्यसि ॥२१११॥
कस्यचित् ।
अज्ञानाद् यदि वाधिपत्यरभसाद् अस्मत्परोक्षं हृता
सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना ।
नो चेल् लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित
च्छत्रच्छन्नदिगन्तम् अन्तकपुरं पुत्रैर् वृतो यास्यसि ॥२११२॥
कस्यचित् ।
रेवाम्भोगर्भमज्जद्विविधवरवधूहस्तयन्त्रोत्थिताभिः
क्रीडन् स्वच्छन्दमद्भिः स्मरसि यद् अकरोद् अर्जुनः कार्तवीर्यः ।
तद्दोष्णां यच् च रामो रणभुवि विदधे वेगवल्गत्कुठारः
प्रायः पौलस्त्य सा ते श्रवणपरिगता किं न वार्तेति विद्मः ॥२११३॥
कस्यचित् । (बा।रा। २।३८, राजशेखरस्य)
कुले पौलस्त्यानां न निजम् अमलं जन्म कलितं
बहोः कालान् नालोचितम् अतुलम् उच्चैः स्वम् अयशः ।
प्रसूनं पुष्पेषोः शरम् असहता किं च भवता
स पत्री सौमित्रेर् अशनिसहधर्मा न गणितः ॥२११४॥
गोसोकस्य ।
शिरोभिर् मा देवीः शिव इव न ते दास्यति पुनर्
दृशं दद्याः सेतावधिजलधि कैलाससुभटः ।
हितं तद् ब्रूमस् त्वां मम जनकदोर्दण्डविजय
स्फुरत्कीर्तिस्तम्भ त्यज कमलबन्धोः कुलवधूम् ॥२११५॥
गदाधरनाथस्य ।