कण्ठच्छेदविशीर्यमाणरुधिरप्राग्भारभग्नद्युतेर्
येन स्मेरमुखेन होमशिखिनः सन्धुक्षणाकाङ्क्षिणा ।
भ्रूभङ्गः शितिकण्ठकण्ठफणिने फूत्कारहेतोः कृतः
शौटीर्यव्रततुष्टधूर्जटिर् असौ किं वर्ण्यते रावणः ॥२१०६॥
कस्यचित् ।
स्वसत्त्वस्योद्रेकाद् अपि दश शिरांसि स्वयम् अयं
सकृच् छित्त्वा छित्त्वा भुजपरिघमृष्ठासृग् अभितः ।
मुखानां स्मेराक्ष्णां सरभसविकाशाद् उदयिनां
किम् अद्राक्षील् लक्ष्मीं पतितपतितानां निपतताम् ॥२१०७॥
कस्य्चचित् ।
निस्त्रिंशप्रतिबिम्बितेऽपि यदुरःकम्पो न वीरव्रत
प्रौढिः सेति न चन्द्रहासमधुनोत्कण्टच्छिदा पर्वणि ।
जूहुषुः स्वशिरांसि शङ्करपुरोहाकारवैरेण यः
स्वाहाकारम् उदाहरन् न स दशग्रीवो गिरां गोचरः ॥२१०८॥
कस्यचित् ।
श्रीकण्ठस्य पुरः परस्परबलाधिक्षेपकक्षावतां
बाहूनां दशकद्वयं दशशिरश्छेदे विवादाकुलम् ।
प्रत्येकं शमयत्य् असाव् अभिमतव्याक्षेपसापत्रपश्
छिन्धि त्वं जुहुधि त्वम् इत्य् उपदिशन्न् एकः परं रावणः ॥२१०९॥
कस्यचित् ।
लूने पञ्च ततश् चतुष्टयम् इति स्रक्सन्निवेशैः शिरः
पद्मैर् अन्यतमावलोकनमितैर् उच्छोणितैर् अर्चितः ।
हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानम् अध्यासयन्
शम्भोर् उद्धतसाहसैकरसिकः कैर् न स्तुतो रावणः ॥२११०॥