०१९ धनुर्भङ्गः

रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैः
शिञ्जासञ्जनतत्परे च हसितं दत्त्वा मिथस् तालिकाः ।
आरोप्य प्रचलाङ्गुलीकिसलये म्लानं गुणास्फालने
स्फाराकर्षणभग्नपर्वणि पुनः सिंहासने मूर्च्छितम् ॥२०९१॥

राजशेखरस्य । (सु।र। १५५०)

रुन्धन्न् अष्टविधेः श्रुतीर् मुखरयन्न् अष्टौ क्रीडयन्
मूर्तीर् अष्ट महेश्वरस्य दलयन्न् अष्टौ कुलक्ष्माभृतः ।
तान्य् अक्ष्णा वधिराणि पन्नगकुलान्य् अष्टौ च सम्पादयन्न्
उन्मीलत्य् अयम् आर्यदोर्बलचलत्कोदण्डकोलाहलः ॥२०९२॥

मुरारेः । (अर् ३।५४)

दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यतष्
टङ्कारध्वनिर् आर्यबालचरितप्रस्तावनाडिण्डिमः ।
द्राक्पर्यस्तकपालसम्पुटमिलद्ब्रह्माण्डभाण्डोदर
भ्राम्यत्पिण्डितचण्डिमा कथम् अहो नाद्यापि विश्राम्यति ॥२०९३॥

भवभूतेः । (म्च् १।५४, द।रू॥ ४।७९, सा।द॥ ३।२२७, सू।मु। ९५।३)

यद् वज्रान्तःकठोरं त्रिपुरविघटनाख्यातवीर्यं
च्छिन्दद्दर्पं भुजानां दशमुखजयिनः कार्तवीर्यार्जुनस्य ।
जीवाकृष्टेरिवातैर् मृडमृडनिनदैर् इष्टदेवं स्मरत् तद्
रामेणोदारधाम्ना धनुर् अमितबलं भग्नम् अर्धेन्दुमौलेः ॥२०९४॥

सरसीरुहस्य ।

उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखैर्नामितं
भूपानां जनकस्य संशयधिया सार्धं समास्फालितम् ।
वैदेहीमनसा समं च सहसा कृष्टं ततो भार्गव
प्रौढाहङ्कृतिकन्दलेन च समं भग्नं तदैशं धनुः ॥२०९५॥

गदाधरनाथस्य ।