पर्णं नागरखण्डम् आर्द्रसुभगं पूगीफलं फालयः
कर्पूरस्य च यत्र कोऽपि चतुरस् ताम्बूलयोगक्रमः ।
देशः केरल एष केलिसदनं देवस्य शृङ्गारिणस्
तं दृष्ट्वा कुरु कोमलाङ्गि सफले द्राघीयसी लोचने ॥२०८१॥
राजशेखरस्य । (बा।रा। १०।६७)
वाक्सत्त्वाङ्गसमुद्भवैर् अभिनयैर् नित्यं रसोल्लासतो
वामाङ्ग्यः प्रणयन्ति यत्र मदनक्रीडामहानाटकम् ।
अत्रान्ध्रास् तव दक्षिणेन त इमे गोदावरीस्रोतसां
सप्तानाम् अपि वार्निधिप्रणयिनां द्वीपान्तराणि श्रिताः ॥२०८२॥
तस्यैव । (बा।रा। १०।७०)
यत् क्षेमं त्रिदिवाय वर्त्म निगमस्याङ्गं च यत् सप्तमं
स्वादिष्ठं च यद् ऐक्षवाद् अपि रसाच् चक्षुश् च यद् वाङ्मयम् ।
तद् यस्मिन् मधुरं प्रसादि रसवत् कान्तं च काव्यामृतं
सोऽयं सुभ्रु पुरोविदर्भविषयः सारस्वतीजन्मभूः ॥२०८३॥
तस्यैव । (बा।रा। १०।७४)
एतन्मालवमण्डलं विजयते सौजन्यरत्नाङ्कुरैः
सम्पद्विभ्रमधामभिः किम् अपरं शृङ्गारसारैर् जनैः ।
यत्रारुह्य विचित्रचित्रवलभीर्लीलाशिलासद्मनां
नीयन्ते जलदोदयेषु दिवसाः कान्तासखैः कामिभिः ॥२०८४॥
तस्यैव । (बा।रा। १०।८४)
क्रीडत्किन्नरकामिनीविहसितज्योत्स्नावलक्षीकृताः
कस्तूरीमददुर्दिनार्द्रसुरभीः प्राग्ज्योतिषीया भुवः ।
नीहारस्थलसञ्चरिष्णुचमरीलाङ्गूलसम्मार्जनी
हेलोन्मृष्टमेरुपुष्परजसो द्रष्टुं समीहामहे ॥२०८५॥
वसुकल्पस्य ।