आवेपते भ्रमति सर्पति मोहम् एति
कान्तं विलोकयति कूजति दीनदीनम् ।
अस्तं हि भानुमति गच्छति चक्रवाकी
हा जीवितेऽपि मरणं प्रियविप्रयोगः ॥२०७१॥
कस्यचित् । (स्व् १९१४)
न कुरु काकुरुतैर् विकलं शुचो
जहिहि पालय बालकुटुम्बकम् ।
सखि रथाङ्गकुटुम्बिनि तद्विधे
व्यतिकरे किम् इदं परिभाव्यते ॥२०७२॥
गोसोकस्य ।
पक्षाव् उत्क्षिपति क्षितौ निपतति क्रोडे नखैर् उल्लिखत्य्
उद्बाष्पेण च चक्षुषा सहचरं ध्यात्वा मुहुर् वीक्षते ।
चक्राह्वा दिवसावसानसमये तत्तत्करोत्य् आकुला
येनालोहितमण्डलोऽपि कृपया यात्य् एष नास्तं रविः ॥२०७३॥
साहसाङ्कस्य ॥ (स्व् १९२१)
एकेनार्कं हुतवहशिखापाटलेनास्तसंस्थं
पश्यत्य् अक्ष्णा सजललुलितेनापरेण स्वकान्तम् ।
अह्नश् छेदे दयितविरहा शङ्किनी चक्रवाकी
द्वौ सङ्कीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥२०७४॥
मधोः । (स।क।आ। ५।४९५; द।रू। उन्देर् ४।३४)
सूर्ये चास्तम् उपागते कमलिनीपण्डे च निद्रालसे
चक्री कान्तवियोगदुःसहशिखिज्वालावलीताडिता ।
प्रत्युत्कूजति मूर्च्छति श्वसिति च व्याघूर्णने ताम्यति
भ्राम्यत्य् उद्वमति क्षमाम् इव निजप्राणान् मुहुर् निन्दति ॥२०७५॥