०१३ प्रशस्त तडागः

भ्राम्यद्भृङ्गालिदोलाविदलितकुमुदामोदमेदस्विवातोद्
वेल्लत्कल्लोलमालाचलकमलकराकूतहूताध्वनीनाः ।
पाथोनाथोपहासोल्लसितरदाकारविस्फारफेनास्
तेनाख्यन्यन्त दन्तद्युतिविशदयशो हंसनीडास् तडागाः ॥२०६१॥

भट्टनारायणस्य ।

तेनाखानि जलावगाहनरसव्यासक्तपौराङ्गना
पर्यस्यत्कवरीविकीर्णकुसुमस्मेरोर्मिमालं सरः ।
यस्मिन्न् अच्छतया निधाय नयने मर्त्यैः सकौतूहलं
लक्ष्यन्ते भुजगाधिराजनगरी वामभ्रुवां विभ्रमाः ॥२०६२॥

उमापतिधरस्य । (स्व् १०६।१)

उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूर
क्रोडक्रीडद्विजालीगरुदुदितमरुत्स्फालवाचालवीचिः ।
एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमाली
व्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस् तडागः ॥२०६३॥

कविपण्डितश्रीहर्षस्य । (न्च् १२।१०१, सू।मु। १०६।३)

तडागास्ते नानानिलचपलपद्माकरलसद्
रसक्षोदामोदाकुलमधुकरालीकवलिताः ।
कृतास् तोयक्रीडाकुलकुवलयाक्षीकुचतट
त्रुटद्वीचीवेल्लत्कुररकुलकोलाहलजुषः ॥२०६४॥

विश्वेश्वरस्य ।

अथायतनसन्निधौ भगवतो भवानीपतेर्
मनोहरम् अचीखनद् भुवनभूषणं भूपतिः ।
विगाहनकुतूहलोत्तरलपौरसीमन्तिनी
पयोधरभरत्रुटद्विकटवीचिमुद्रं सरः ॥२०६५॥

वसुकल्पस्य ।