०११ विशेषनदी

कूजद्भिर् वनकुक्कुभिर् मदकलं वाचालतीरद्रुमा
बिभ्राणा विकचाब्जकेशररजःपिङ्गास् तरङ्गावलीः ।
स्रोतःक्ष्माविपाण्डुसैकतसुखासीना रसत्सारसा
धन्येयं तमसा नदी हरति मे दृष्टापि मार्गश्रमम् ॥२०५१॥
एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः
सन्त्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः ।
लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित
त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ॥२०५२॥

कस्यापि (सु।र। १६५६)

मज्जन्मातङ्गहस्तच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धाङ्गनानां कुचयुगविलसत्कुङ्कुमासङ्गपिङ्गम् ।
सायं प्रातर् मुनीनां कुशकुसुमचयच्छन्नतीरस्थलीकं
पायाद् वो नर्मदाम्भः करिकरमकराक्लान्तरंहस् तरङ्गम् ॥२०५३॥

छित्तपस्य ।

इयं सा कालिन्दी कुवलयदलस्निग्धमधुरा
मदान्धव्याकूजतरलजलरङ्कुप्रणयिनी ।
पुरा यस्यास् तीरे सरभससतृष्णं मुरभिदो
गताः प्रायो गोपीनिधुवनविनोदेन दिवसाः ॥२०५४॥

शरणस्य । (पद्या। ३४३, दशरथस्य)

इदं तत् कालिन्दीपुलिनम् इह कंसासुरभिदो
यशः शृण्वद् वक्त्रस्खलितकवलं गोकुलम् अभूत् ।
भ्रमद्वेणुक्वाणश्रवणमसृणोत्तारमधुर
स्वराभिर् गोपीभिर् दिशि दिशि समुद्घूर्णम् अनिशम् ॥२०५५॥

केशटस्य । (पद्या। ३४५, मोटकस्य)