०१० नदी

भान्त्य् एताः शैवलिन्यो वनमहिषखुरक्षुण्णपाठीनपृष्ठ
ग्रासव्यग्रोद्रवृन्दप्रविरलचरणन्यासमुद्राङ्कपङ्काः ।
निःशङ्कोद्भ्रान्तकङ्कत्रसदुरगवधूसम्भ्रमोत्फालमूर्च्छद्
भेकार्तस्वानदीर्घीकृतरवविरसत्कीचकग्रन्थिरन्ध्राः ॥२०४६॥

कस्यचित् ।

व्यक्तव्याघ्रपदाङ्कपङ्क्तिनिचितोन्मुद्रार्द्रपङ्कोदरास्
तोयोत्तीर्णनिवृत्तनक्रजठरक्षुण्णस्थलीबालुकाः ।
सान्द्रस्थूलनलोपरोधविषमाः शङ्क्यावताराः पुरः
सन्त्रासं जनयन्ति कुञ्जसरितः काचाभह्नीलोदकाः ॥२०४७॥

कस्यचित् (सु।र। २८१)

अन्तर्मग्नकरेणवः कलभकव्यारुग्णकन्दाङ्कुरैः
सामोदाः परितः प्रमत्तमहिषश्वासोल्लसद्वीचयः ।
सम्मोदं जनयन्ति शैलसरितः सुच्छायकच्छस्थली
सीमानो जलसेकशीतलशिलानिद्राणरोहिद्गणाः ॥२०४८॥

जलचन्द्रस्य ।

जलरयदलत्कूलोत्सङ्गाः प्रलम्बिलतागृह
स्तिमितगतिभिर् वेणीबन्धैर् विशृङ्खलवीचयः ।
स्थपुटितशिलासोपानेषु प्रकामतरङ्गिताः
शिखरिसरितो नेत्रानन्दं किरन्ति समन्ततः ॥२०४९॥

तस्यैव ।

वीचीसङ्क्रमदन्तुराः कलरवैर् वाचालिताः सारसैर्
आनन्दं जनयन्ति पूरगरिमोत्तानीभवद्बालुकाः ।
भ्रान्तागन्तुकराजहंसपरिषत्पादाङ्कमुद्राभृतः
प्रस्थक्ष्मारुहतल्पसुप्तकुरराः स्रोतस्वतीभूमयः ॥२०५०॥