माद्यद्दिग्गजगण्डभित्तिकषणैर् भग्नस्रवच्चन्दनः
पादालक्तमौक्तिकशिलः सिद्धाङ्गनानां गतैः ।
क्रन्दत्कन्दरगह्वरो जलनिधेर् आस्फालितो वीचिभिः
सेव्योऽयं मलयाचलः किम् अपि मे चेतः करोत्य् उत्सुकम् ॥२०३६॥
श्रीहर्षस्य । (न्न् १।९)
एताः स्थानपरिग्रहेण शिवयोर् अत्यन्तकान्तश्रियः
प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवम् ।
व्यावल्गद्बलवैरिवारणवरप्रत्यग्रदन्ताहति
श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः ॥२०३७॥
कस्यचित् । (सु।र। १५९३)
छन्नोपान्ता निकुञ्जैस् तरुणशुककुलश्यामलैः कीचकानां
शैलेयप्रस्तराभिः सुभगपरिसराः पीवरीभिः शिलाभिः ।
एते ते रुद्धरेवारयमुखरतया यौवनोद्दामकाम
व्यापारोत्ताललीला चतुरवनचरीबन्धवो विन्ध्यपादाः ॥२०३८॥
योगेश्वरस्य ।
इमास् ता विन्ध्याद्रेः शुकहरितवंशीवनघना
भुवः क्रीडालोलद्विरदरदनाभुग्नतरवः ।
लताकुञ्जे यासाम् उपनदि रतक्लान्ततरुणी
कपोलस्वेदाम्भःपरिचयनुदो वान्ति मरुतः ॥२०३९॥
तस्यैव । (स।क।आ। ३।९, सु।र। १५८८, दक्षस्य)
करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर्
अरुणसरणयोऽमी सर्वतो भीषयन्ते ।
चलितशबरसेनादत्तगोशृङ्गचण्ड
ध्वनिचकितवराहव्याकुला विन्ध्यपादाः ॥२०४०॥
कमलायुधस्य । (स।क।आ। २।३०, सू।मु। १०३।१४, सु।र। १५८७)