००७ नानापक्षिणः

उत्प्लुत्य दूरं परिधूय पक्षा
वधो निरीक्ष्य क्षणबद्धलक्ष्यः ।
मध्येजलं चञ्चति दत्तझम्पः
समत्स्य उत्सर्पति मत्स्यरङ्कः ॥२०३१॥

कस्यचित् । (सु।र। ११५५)

नीडाद् अपक्रम्य विधूय पक्षौ
वृक्षाग्रम् आरुह्य ततः क्रमेण ।
उद्ग्रीवम् उत्पुच्छम् उदेकपादम्
उच्चूडम् उकूजति ताम्रचूडः ॥२०३२॥

मधोः । (सु।र। ११५६)

इह सरसि सलीलं चारुपत्रे विधुन्वन्
दरतरलिततिर्यक्चञ्चुकण्डूयिताङ्गः ।
अनुसरति सरागः प्रेयसीम् अग्रयाताम्
अनुपदसम् उदञ्चत्कण्ठनालो मरालः ॥२०३३॥

शिशोकस्य ।

चञ्चच्–चञ्चल चञ्चुवाञ्छितचलच्चूडाग्रम् उग्रं पतच्
चक्राकारकरालकेशरशटास्फारस्फुरत्कन्धरम् ।
वारं वारम् उदङ्घ्रिलङ्घनप्रेङ्खन्नखक्षुण्णयोः
कामं कुक्कुटयोर् द्वयं द्रुतपदं क्रूरक्रमं युध्यते ॥२०३४॥

कस्यचित् । (शा।प। ५७२, सु।र। ११७१)

उत्पुच्छः प्रमदोल्लसद्वपुर् अधोविस्रंसिपक्षद्वयः
स्वैरालोकगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः ।
उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस
न्यग्भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः स्वयम् ॥२०३५॥

सोह्लोकस्य । (सु।र। ११८३)