असौ गिरेः शीतलकन्दरस्थः
पारावतो मन्मथचाटुदक्षः ।
धर्मालसाङ्गीं मधुराणि कूजन्
संवीजते पक्षपुटेन कान्ताम् ॥२०२१॥
पाणिनेः ।
किञ्चित् कुञ्चितचञ्चुचुम्बनसुखस्फारीभवल्लोचनं
स्वप्रेमोचितचारुचाटुकरणैश् चेतोऽर्पयन्ती मुहुः ।
कूजन्ती विनतैकपक्षतिपुटेनालिङ्ग्य लीलालसं
धन्यं कान्तम् उपान्तवर्तिनम् इयं पारावती सेवते ॥२०२२॥
मतिराजस्य ।
कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
पारावतः परिभ्रम्य रिरंसुश् चुम्बति प्रियाम् ॥२०२३॥
दण्डिनः । (शा।प। ५७०)
प्रातर् वारविलासिनीजनरणन् मञ्जीरमञ्जुस्वनैर्
उद्बुद्धः परिधूय पक्षतिपुटं पारावतः सस्पृहम् ।
किञ्चित् कुञ्चितलोचनां सहचरीं सञ्चुम्ब्य चञ्च्वा चिरं
मनान्दोलितकण्ठकुण्ठितगलः सोत्कण्ठम् उत्कूजति ॥२०२४॥
विक्रमादित्यस्य । (सु।र। ११५४)
पक्षाभ्यां सहितौ प्रसार्य चरणाव् एकैकशः पार्श्वयोर्
एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती ।
निद्राशेषविशेषरक्तनयनो निर्याय नीडोदराद्
आसृक्कान्तविदारिताननपुटःउ पारावतो जृम्भते ॥२०२५॥
शृङ्गारस्य । (सु।र। ११५३, भृङ्गारस्य)