००२ तुरङ्गः

पश्चात् खुरद्वितयखण्डितभूमिभाग
मूर्ध्वीकृताग्रचरणद्वयम् उग्रहेषम् ।
मूर्धावगाहनविहस्तनिजाश्ववार
भाराज् जनः परिजहार खलं तुरङ्गम् ॥२००६॥

धोयीकस्य ।

कृतशीकरवृष्टिकेशरैर्
असकृत् स्कन्धम् अबन्धुरं धुवन् ।
अपिवच् चरणाग्रताडितं
तुरगः पङ्किलम् आपगता पयः ॥२००७॥

तस्यैव ।

आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस् तुरङ्गः
पुञ्जीकृत्याखिलाङ्घ्रीन् क्रमवशविनमज्जानुकं मुक्तकायः ।
पृष्ठान्तः पार्श्वकण्डूव्यपनयनवशाद् द्विस्त्रिरुद्वर्तिताङ्गः
प्रोत्थाय द्राङ् निरीहः क्षणम् अथ वपुर् आस्यानुपूर्वं धुनोति ॥२००८॥

विक्रमादित्यस्य । (सु।र। ११६७)

पश्चाद् अङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गम् उच्चैर्
आसज्याभुग्नकण्ठं क्षणम् उपरिसटां घूलिधूम्रां विधूय ।
घासग्रासाभिलाषाद् अनवरतचलत्प्रोथतुण्डस् तुरङ्गो
मन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण ॥२००९॥

भट्टबाणस्य ॥ (ह्च् ३।५, स्व् २४२०, सू।मु। १०२।४, सु।र। ११६६)

कुर्वन्न् आभुग्नपृष्ठो मुखनिकटकटिः कन्धरामातिरश्वीं
लोलेनाहन्यमानां तुहिनकणमुचा चञ्चता केशरेण ।
निद्राकण्डूकषायं कषति निबिडितश्रोत्रशुक्तिस् तुरङ्गस्
त्वङ्गत् पक्ष्माग्रलग्नप्रतनुबुसकणं कोणम् अक्ष्णः खुरेण ॥२०१०॥

तस्यैव ॥ (ह्च् ३।६)