मनुजस् तुरङ्गगावौ पशवः पारावतो बलाका च ।
नानाखगाश् च गिरयो वनस्रवत्यौ विशेषनदी ॥१॥
पद्माकरः प्रशस्तः सरसी चक्रश् च चक्रवाकी च ।
दिग्देशौ वीरधनुर् भङ्गौ हनूमत्प्रभृतिशौर्यम् ॥२॥
रावण एतस्य शिरश्छेदो दूतोऽनुवादसंवादः ।
कवयो नानाकवयः प्रत्येककविर् मनस्विकवयश् च ॥३॥
कविदानं गुणिगर्वो वाणी काव्यं च काव्यमात्सर्यम् ।
काव्यमलिम्लुचसज्जनदुर्वृत्ताः सुजनदुर्जनौ मिलितौ ॥४॥
धन्य उदात्तो मानी कृपणः सेवकमनस्विभजमानौ ।
दुरधीशसेवकश् च क्षुद्रोदयदुःखितोऽथ दारिद्र्यम् ॥५॥
तत् सचटु दरिद्रगृही तद्गृहिणी तद्गृहं जरावृद्धः ।
अनुशयनिर्वेदाव् अथ विचारविचिकित्सिते च शमविघ्नः ॥६॥
अर्धशमः कारुणिकः शान्त्याशंसा कृतार्थशान्तश् च ।
शान्तिगतो निष्क्रमनिःस्पृहवनगमनोत्सुकास् तपोविपिनम् ॥७॥
तापसबहुविषयशमौ ज्ञानी भवितव्यता च दैवं च ।
कालपितृवनसमस्योच्चावचप्रतिराजसंस्तुतयः ॥८॥
इति षट्काधिकसप्ततिवीचिभिर् इह सरसकोमलैर् एभिः ।
उच्चावचप्रवाहं श्रीधरदासः कृती कृतवान् ॥९॥