०७२ उच्चावचम्

भ्रातः पश्य निकृत्य चन्दनतरूच्छाकोटको रोप्यते
सारासारविचारिणी मतिर् इह ग्रामे जनानां कुतः ।
तद् यावद् वयम् अस्य सेकसलिलं वोढुं न मृष्यामहे
तावत् सत्वरम् एव पामरजन ग्रामाद् इतो गम्यताम् ॥१९९६॥

कस्यचित् ।

दन्तैर् उपतितं स्फुरन्ति वलयो निष्कालिमानः कचाः
शीर्णदेहम् अपेतम् एव करणग्रामेण लुप्ता मतिः ।
अस्मिन्न् अप्रतिकारदारुणजराव्याधौ दयार्द्रात्मना
भ्रातर् वैद्य विधीयते तव कियद् यावन् मया भेषजम् ॥१९९७॥

उमापतिधरस्य ।

पन्थाः प्रज्वलितः स्फुरन्ति पुरतः क्रूराः कृशानुत्विषः
कान्तारद्रुमघर्मदीधितिर् अपि व्योमार्धम् आरोहति ।
अस्माभिः श्रमविह्वलैर् इह तरुच्छायासमालम्बिभिर्
न ज्ञाताः परितः किरातशिविरव्याप्ता वनश्रेणयः ॥१९९८॥

तीरभुक्तीयसर्वेश्वरस्य ।

तद्ब्रह्माण्डम् इह क्वचित् क्वचिद् अपि क्षोणी क्वचिन् नीरदास्
ते द्वीपान्तरशालिनो जलधयः क्वापि क्वचित् पर्वताः ।
आश्चर्यं गगनस्य कोऽपि महिमा सर्वैर् अमीभिः स्थितैर्
दूरे पूरणम् अस्य शून्यम् इति यन्नामापि नाच्छादितम् ॥१९९९॥

केशरस्य । (सु।र। ११९३)

समालम्ब्यान्योन्यं मसृणचरणाः कम्पनजुषो
न याताः के पारं सति जलधिबन्धे कपिभटाः ।
तटाद् एकोऽर्वाचश् चकितसुरसिद्धस्थितिसमुत्
समुत्प्लुत्य प्रायात् परमपरपारं स हनुमान् ॥२०००॥

छित्तिपस्य ।

श्रीधरदासकृतेऽस्मिन् सदुक्तिकर्णामृते चतुर्थोऽयम् ।
सत्कर्मण्य् अपदेशप्रवाह उपदेशतां भजतु ॥

इति श्रीमहामाण्डलिकश्रीधरदासकृतौ सदुक्तिकर्णामृते ।

अपदेशप्रवाहो नाम चतुर्थः । वीचयः ७२ । श्लोकाः ३६० ॥

सदुक्तिकर्णामृतम्

(५)