प्रतिजागृहि दुस्त्यजं वपुः
शुक शोकं ननु मा वृथा कृथाः ।
क्व वनं क्व च पञ्जरोदरं
तव दोषः स्फुटवादिता न चेत् ॥१९८६॥
अचलसिंहस्य ।
अयि शाकुनिक कृतोऽञ्जलिर् इतरे न कतीह जीवनोपायाः ।
हत्वा शुकान् किम् एतद् विपिनम् असारस्वतं कुरुषे ॥१९८७॥
वैद्यगदाधरस्य ।
एकत्र प्राकृतैः साम्यम् अन्यत्र परतन्त्रता ।
शुकस्य परितोषाय न वनं न च पत्तनम् ॥१९८८॥
उमापतिधरस्य ।
अयि खलु बधिराधिराज कीरं
तुदसि शलाकनिपातनेन मोहात् ।
अनिशम् अपि सुधानिधानवाणीं
रचयतु मौनमुखोऽस्तु वा समस्ते ॥१९८९॥
भ्रातः कीर किम् अत्र नीरसतरुस्कन्धे मधुस्यन्दिभिर्
व्याहारैस् तव वस्तुवर्णितकथाबन्धैर् मुधायं श्रमः ।
नैते दाडिमशाखिनः परिणतैर् येषां फलैर् अन्तरं
निर्भिद्यापि गुणानुरक्तम् अशठैर् आविष्क्रियन्ते मुदः ॥१९९०॥
लौलिकस्य ।