धिक् कुब्जाम्बुजवेत्रवेतसवनान्य् एतानि यत् ते पिक
व्याहारैः पणयाद् अमीषु मधुरैर् एभिः किम् उन्मुद्रितैः ।
नेह त्वत्सुहृदो रसालतरवः श्रुत्वा भवद्भाषितं
येषाम् अस्थित्भिर् अप्य् उपात्तमुकुलैर् आविष्क्रियन्ते मुदः ॥१९८१॥
हरेः ।
उद्यानानि न सर्वदा परिभवत्रासाद् इवाध्यासत्
भूमौ नोपविशन्ति ये खलु रजः सम्पर्कतर्काद् इव ।
तेषाम् अप्य् अतिपूजनीयवपुषां नूनं पिकानाम् इयं
धिक् कष्टं परपुष्टतेति किम् अपि प्राचां फलं कर्मणाम् ॥१९८२॥
तस्यैव ।
उद्यत्सौरभगर्भनिर्भरमिलद्वाला कुरश्रीमृतो
माकन्दान् अवलोक्य यः प्रतिदिशं सानन्दम् उत्कूजितः ।
तान् एवाद्य फलाशया परिरटल्लुण्ठाककाकावली
वाचालान् उपलभ्य कोकिलयुवा जातः स वाचंयमः ॥१९८३॥
तस्यैव ।
दात्य् ऊहाः सरसं रसन्तु सुभगं गायन्तु केकाभृतः
कादम्बाः कलम् आलपन्तु मधुरं कूजन्तु कोयष्टयः ।
दैवाद्यावद् असौ रसालविटपिच्छायाम् अनासादयन्
निर्विण्णः कुटजेषु कोकिलयुवा सञ्जातमौनव्रतः ॥१९८४॥
रामदासस्य । (शा।प। ८५०, सू।मु। १४।१४)
परभृतशिशो तावन् मौनं विधेहि नभस्तलोत्
पतनविधये पक्षौ स्यातां न यावद् इमौ क्षमौ ।
ध्रुवम् अपरथा द्रष्टव्योऽसि स्वजातिविलक्षण
ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः ॥१९८५॥
अचलसिंहस्य । (सू।मु। १४।९, सु।र। १०५१)