०६८ राजहंसः

उद्भ्रान्तभेककुलकीर्णजले तडागे
कोऽप्य् अस्ति नाम यदि नान्यगतिर् बकोटः ।
उत्फुल्लपद्मसुरभीणि सरांसि हित्वा
न स्थातुम् अर्हति भवान् इह राजहंस ॥१९७६॥

शङ्करस्य ।

गाङ्गम् अम्बु शुभम् अम्बु यामुनं
कज्जलाभम् उभयत्र मज्जतः ।
राजहंस तव सैव शुभ्रता
चीयते न च न चापचीयते ॥१९७७॥

सुरभेः । (क्प् ५५९, सा।द। उन्देर् १०।११८)

छायाम् आश्रयपुण्डरीकमिलितां मध्येसरःशीकरं
सानन्दी भव राजहंस भवतः स्यान् नाम पक्षोन्नतिः ।
मञ्जीरेण तथापि च ध्वनिर् अयं निर्गीयते लीलया
योऽस्माकं परिचारिकाचरणयोः खेलाभिर् उत्कूजति ॥१९७८॥

उमापतिधरस्य ।

१९७९१९८० न स्तः ।