०६७ हंसः

गतं तद् गाम्भीर्यं तटम् उपगतं जालिकशतैः
सखे हंसोत्तिष्ठ त्वरितम् अमुतो गच्छ सरसः ।
न यावत् पङ्काम्भःकलुषिततनुर् भूरि विरसन्
बकोटो वाचाटश् चरणयुगलं मूर्ध्नि कुरुते ॥१९७१॥

डिम्बोकस्य । (स्व् ७०७, शा।प। ८१०, सू।मु। १५।८)

प्रालेयांशुमरीचिनालधवलान् आस्वाद्य कन्दाङ्कुरान्
पीतं यैर् जलजन्मकेशरपरिष्वङ्गाधिवासं पयः ।
हंसास् तेऽपि सखे तडाग भवतः क्रीडासहस्राविणो
जाताः पङ्किलबालवीरणदलद्रोणीजलग्राहिणः ॥१९७२॥

जलचन्द्रस्य ।

स्थित्वा चिरं नभसि निश्चलतारकेण
मातङ्गसङ्गकलुषां नलिनीं विलोक्य ।
उत्पन्नमन्युपरिघर्घरनिःस्वनेन
हंसेन साश्रु परिवृत्य गतं नु लीनम् ॥१९७३॥

कस्यचित् ।

ककुभि ककुभि ध्वान्तक्षुब्धं वितत्य विधाय च
श्रुतिपुटभिदो गर्जाः श्रेयः कृतं परम् अम्बुदैः ।
कथम् इतरथा जातोद्वेगः समुज्झितपल्वलः
कनककमलोत्तंसे हंसः स नन्दति मानसे ॥१९७४॥

अचलसिंहस्य ।

तटम् उपगतं पद्मे पद्मे निवेशितम् आननं
प्रतिपुटकिनी पत्रच्छायं प्रतिक्षणम् आसितम् ।
नयनसलिलैर् उष्णैर् उष्णीकृता जलवीचयो
जलदमलिनां हंसे नाशां विलोक्य गमिष्यता ॥१९७५॥

छित्तिपस्य ।