तृषार्तैः सारङ्गैः प्रतिजलधरं भूरि विरुतं
घनैर् मुक्ता धाराः सपदि पयसस् तान् प्रति मुहुः ।
खगानां के मेघाः क इह विहगा वा जलमुचाम्
अयाच्यो नार्तानाम् अनुपकरणीयो न महताम् ॥१९५१॥
भर्तृहरेः । (शा।प। १२०५, सु।र। १३६२)
नभसि निरवलम्बे सीदता दीर्घकालं
त्वदभिमुखनिविष्टोत्तानचञ्चुपुटेन ।
जलधरजलधारा दूरतस् तावद् आस्तां
ध्वनिर् अपि मधुरस् ते न श्रुतश् चातकेन ॥१९५२॥
अचलसिंहस्य । (ब्प् २०८, सू।मु। १३।२, सु।र। १०८०)
अभिपतति घनं शृणोति गर्जाः
सहति शिलाः सहते तडित्तरङ्गान् ।
विधुवति गरुतं रुतं विधत्ते
जलपृषते कियतेऽपि चातकोऽयम् ॥१९५३॥
तस्यैव । (सु।र। १०८३)
अब्धिर् यद्य् अवधीरितो न तु तदा तस्मान् निपीयाम्बुदैर्
वान्तान् याचसि काकुभिर् जललवान् उत्तानचञ्चूपुटः ।
तत् ते निस्त्रपनीचतैव मुचिता निर्वक्तुम् एतत् कथं
विद्मः केन गुणेन मानिषु पुनः सारङ्ग सङ्गीयते ॥१९५४॥
तस्यैव ।
चक्षुः कदर्थयितुम् अर्जयितुं च तापम्
अध्वश्रमेण परिशोषयितुं शरीरम् ।
अभ्युल्लसज्जलधरभ्रमसम्भ्रमेण
धिग् धूमकूटम् अभिधावति चातकोऽयम् ॥१९५५॥
तस्यैव ।