निपीता श्वेतांशोर् जलद जगदाह्लादनकरी
मरीचिर् यद्य् एषा वहसि किम् उ खद्योतनिवहान् ।
किम् एते कर्तारः कुमुदवनम् उन्निद्रम् उदधेः
किम् आनन्दं मन्दीकृततिमिरवृन्दाः किम् उ दिशः ॥१९४६॥
जलचन्द्रस्य ।
दूरोत्सारितराजहंस जलद प्राप्योन्नतिं नूतनां
कोटिं काम् अपि साम्प्रतं मलिनिमा नीतस् त्वया यन् निजः ।
यत् सम्भूय बकैर् अमीभिर् अहह त्वं भूषणोत्प्रोक्षणाद्
आत्मानं बहुमन्यमानगमनं गर्जारवैरश्नुषे ॥१९४७॥
हरेः ।
आशाः खर्वय गर्वयातिमुखरानुन्नादिनो बर्हिणः
सर्वांस् त्रासय गर्जितैः कलगिरो हंसान् समुत्सारय ।
द्राग् आस्कन्दय मित्रमण्डलम् अलं सद्वर्त्म सन्दूषय
श्रीमन्न् अब्द नयत्य् अयं न पवनो यावद् दशां काम् अपि ॥१९४८॥
सरसीरुहस्य ।
तडित्तेजःपुञ्जैर् जनयसि दृशोः काम् अपि रुजं
गरीयोगर्जाभिः प्रकटयसि कर्णद्वयभिदाम् ।
यद् अम्भोबिन्दूनां प्रणयपरिपाको यम् अखिलस्
तद् अस्यैवाम्भोधेर् जलधर न धैर्यं कलयसि ॥१९४९॥
अभिनन्दस्य ।
एतेषु रे तरुणमारुतधूयमान
दावावलीकवलितेषु महीरुहेषु ।
अम्भो न चेज् जलद मुञ्चसि मा विमुञ्च
वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥१९५०॥
विश्वेश्वरस्य ।