०६१ जलदश्लाघाः

आश्वास्य पर्वतकुलं तपनोष्णतप्तम्
उद्दामदावविधुराणि च काननानि ।
नानानदीनदशतानि च पूरयित्वा
रिक्तोऽसि यज् जलद सैव तवोत्तमश्रीः ॥१९४१॥

कस्यचित् । (शा।प। ७७८, सु।र। १०९८)

क्रूराः शैलभुवो निरभ्रपुरुषः पूषा ललाटन्तपः
पांशुः पादनखम्पचः प्रतिदिशं वात्या करीषङ्कषा ।
एतस्यां मरुसीम्नि जाङ्गलतटीनिष्ट्यूतदावानल
क्लान्तपान्थकुलान्यकालजलद त्वं त्रातुम् एकः क्षमः ॥१९४२॥

धर्मयोगेश्वरस्य ।

उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं
पुरो नानाभङ्गान् अनुभवति पश्यैष जलदः ।
कथञ्चिल् लब्धानि प्रवितरति तोयानि जगते
गुणं वा दोषं वा गणयति न दानव्यसनिता ॥१९४३॥

वल्लणस्य । (सु।र। १३७९)

स चेन् मूर्च्छन्मत्स्यावलिर् अपि निपीतः पतिर् अपां
ततो वान्तः किं तद्व्यवसितम् अगस्त्येन तपसा ।
घनः श्लाघ्यः पीत्वा कियद् अपि पयस् तस्य हि वमन्
बिभर्त्य् एतद् विश्वं तम् अपि किल रत्नाकरयति ॥१९४४॥

सान्झानन्दिनः ।

धिग् धिक् तान् उदधीस् तुमन्स्तु जलदं येभ्यः समभ्यर्थितैः
पाथोभिः पदवीं निदाघविकलां यः प्लावयन् वर्षति ।
यद्य् अस्याप्य् उदरे भवेद् अगणितस् तावन् मणीनां गणस्
तत् किं नैष करोति रत्नकरकासारैः समृद्धं जगत् ॥१९४५॥

कविपण्डितश्रीहर्षस्य ।