०६० मेघः

अभ्युन्नतोऽसि सलिलैः परिपूरितोऽसि
त्वाम् अर्थयन्ति विहगास् तृषितास् तथैते ।
कालः पयोधर परोपकृतेस् तवायं
चण्डानिलव्यतिकरे क्व भवान् क्व ते वा ॥१९३६॥

वाञ्छोकस्य ।

अये पाथोवाह स्थगय ककुभोऽन्यास्तत इतस्
त्यजैतां सीमानं वसति मुनिर् अस्यां कलशभूः ।
उदञ्चत्कोपेऽस्मिन् स जलधिर् अपि स्थास्यति न ते
यतः पायं पायं सलिलम् इह शौर्यं प्रथयसि ॥१९३७॥

वैद्यगदाधरस्य ।

आकल्पं यदि वर्षसि प्रतिदिनं धारासहस्रैस् तथाप्य्
अम्भोधौ कलयत्य् अगाधजठरे कस् तावकीनं श्रमम् ।
अम्भोद क्षणमात्रम् उज्झसि पयः पृष्ठे यदि क्ष्माभृतां
तत् किं न प्रसरन्ति निर्झरसरिद्व्याजेन ते कीर्तयः ॥१९३८॥

वासुदेवस्य ।

एते ते पुरतो मरुस्थलभुवः प्रोच्चण्डदावानल
ज्वालालीढकठोरसूरकिरणप्लुष्टच्छदाः शाखिनः ।
तान् एतान् अवधीर्य खिन्नवपुषो दुःशीलझञ्झानिल
क्रीडाभिर् न पयोद गन्तुम् उचितं वेलाभिषिक्तद्रुमान् ॥१९३९॥

योगेश्वरस्य ।

अये पश्यावस्थाम् अकरुणसमीरव्यतिकर
स्फुरद्दावज्वालावलिजटिलमूर्तेर् विटपिनः ।
अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः
किम् एभिर् निर्घोषैः सृज झटिति झात्कारि सलिलम् ॥१९४०॥

अचलसिंहस्य । (सु।र। १०२९)