न्यग्रोधे फलशालिनि स्फुटरसं किञ्चित् फलं पच्यते
बीजान्य् अङ्कुरगोचराणि कतिचित् सिध्यन्ति तस्मिन्न् अपि ।
एकस् तेष्व् अपि कश्चिद् अङ्कुरवरो बध्नाति ताम् उन्नतिं
याम् अध्यन् यजनः स्वमातरम् इव क्लान्तिच्छिदे धावति ॥१९२६॥
शालिकस्य । (सु।र। १०६२, शालिकनाथस्य)
केनात्र चम्पकतरो बत रोपितोऽसि
कुग्रामपामरजनान्तिकबाटिकायाम् ।
यत्र प्ररूढनवशाकविवृद्धलोभ
गोभग्नबाटघटनोचितपल्लवोऽसि ॥१९२७॥
वीरस्य ।
फलानां सम्भारैर् अधरय तरून् उन्नततया
स्पृशाकाशं सर्वाः स्थगय परिणाहैर् अपि दिशः ।
तथापि ध्वाङ्क्षेभ्यो न पुनर् इतरः कोऽपि विहगः
फलार्थी निम्ब त्वां प्रकृतिविरसं धावति मुदा ॥१९२८॥
विश्वेश्वरस्य ।
पृथुत्वात् सौरभ्यान् मधुरतरभावाच् च पतितैः
क्षुधोत्तप्तैः कुक्षिम्भरिभिर् इह सेवा तव कृताः ।
तदात्वव्यामुग्धैर् अनुदिवसम् अस्वास्थ्यजननी
न दृष्टा तेऽस्माभिः पनस परिणामे विरसता ॥१९२९॥
उमापतिधरस्य ।
परार्थे यः पीडाम् अनुभवति निर्व्याजमधुरो
यदीयः सर्वेषाम् इह खलु विकारोऽप्य् अभिमतः ।
न सम्प्राप्तो वृद्धिं सपदि हतदैवात् समुचितां
किम् इक्षोर् दोषोऽयं स पुनर् अगुणाया मरुभुवः ॥१९३०॥
वाक्पतेः । (स्व्। ९४७, शा।प। १०५२, सू।मु। ३५।५)