०५६ मार्गतरुः

यच् छायाम् अतनुं तनोषि मधुरैः प्रीणासि यत् त्वं फलैर्
यन् नम्नोऽसि यद् उन्नतोऽसि चतुरे यद् वर्तसे वर्त्मनि ।
यत् पान्थैर् अपरैर् अपि प्रतिपथं प्रस्तूयसे प्रायशस्
तन् नाथ क्षितिज त्वम् एव पथिकैर् विश्रान्तये चिन्त्यसे ॥१९१६॥

कस्यचित् ।

उपरि मिहिरः क्रूरः क्रूरास्तलेऽचलभूमयो
वहति पवनः पांशूत्कर्षी कृशः सरसो रसः ।
अहह न जहत्य् एते प्राणांस् तदैव किम् अध्वगा
यदि न भवतः पत्रच्छत्रं विशन्ति महीरुहः ॥१९१७॥

पुरुसेनस्य ।

आसीद् यस् तव पुत्रकस् त्रिचतुरैः पत्राङ्कुरैर् आवृतो
मेघोन्मुक्तजलैकजीवनविधिः सन्मार्गलब्धास्पदः ।
सोऽयं सम्प्रति वासरैः कतिपयैर् अध्वन्य् अपुण्योच्चयैः
सम्पन्नः फलनम्रपल्लवततिच्छायोपलिप्तावनिः ॥१९१८॥

सुरभेः ।

ये पूर्वं परिपालिताः फलदलच्छायादिभिः पत्रिणो
विश्रामद्रुमं कथ्यतां तव विपत्काले क्व ते साम्प्रतम् ।
एताः सन्निधिमात्रदर्शितपुरस्कारास् तु धन्यास् त्वचो
यासां छेदनम् अन्तरेण पतितो नायं कुठारस् त्वयि ॥१९१९॥

वित्तोकस्य । (शा।प। ९८५, सु।र। १०९९)

किं जातोऽसि चतुष्पथे यदि घनच्छायोऽसि किं छायया
युक्तश् चेत् फलितोऽसि किं फलभरैर् आढ्योऽसि कस्मान् नतः ।
हे सद् वृक्ष सहस्व सम्प्रति शिखाशाख्याशताकर्षण
क्षोभामोटनभञ्जनानि जनतः स्वैर् एव दुश्चेष्टितैः ॥१९२०॥

कस्यचित् । (स।क।आ। ४।९३, शा।प। ९७१, सू।मु। ३३।४)