०५४ अशोकः

छायातिसान्द्रशिशिरा नवपल्लवानि
स्निग्धानि मुग्धसुरभिः स्तवकप्रबन्धः ।
स्थित्वा फलानि सदृशानि विधेहि मा वा
दृष्ट्वैव ते मुखम् अशोक वयं विशोकाः ॥१९०६॥

नाकोकस्य ।

सन्तु स्वादुफलाः शतं परिमलश्लाघ्यप्रसूनावली
सम्बाधाश् च शतं वसन्तसमये वैशेषिकाः शाखिनः ।
उत्फुल्लस्तवकस्रगुज्ज्वलनवप्रोत्खेलवल्लिर् यथा
कङ्केल्लिः श्रियम् अस्य पुष्यति तथा कः प्रेक्षणीयोपरः ॥१९०७॥

तस्यैव ।

कियन्तः सन्त्य् एते जगति तरवः कोऽपि न पुनः
प्रसूनार्थं नारीचरणपरिचर्या गतिर् अभूत् ।
प्रमोदाद् अन्तश् चेद् वलति फलवाञ्छा तव तदा
वदाशोक श्लाघ्यो भवतु कतरो दोहदविधिः ॥१९०८॥

जलचन्द्रस्य ।

केषाञ्चित् कुसुमोदयाद् अनु विना तेनापि केषाञ्चन
स्फायन्ते धरणीरुहाम् इह दिनैर् द्वित्रैः फलश्रेणयः ।
पुष्पश्रेणिषु पद्मरागपदवीपत्रेषु कान्ताकर
श्रीर् इत्य् एव फलाद् ऋते बत गतः कङ्केल्लिजन्मग्रहः ॥१९०९॥

उमापतिधरस्य ।

किं ते नम्रतया किम् उन्नततया किं ते घनच्छायया
किं ते पल्लवलीलया किम् अनया चाशोक पुष्पश्रिया ।
यत् त्वन्मूलनिषण्णस्विन्नपथिकस्तोमः स्तुवन्न् अन्वहं
न स्वादूनि मृदूनि खादति फलान्य् आकण्ठम् उत्कण्ठितः ॥१९१०॥

कविराजश्रीनारायणस्य । (शा।प। १००४, सू।मु। ३३।३२, श्रीभोजदेवस्य; सु।र। १०३८, कस्यचित्)