तैस् तैर् जन्मप्रभृति विदितैर् दोहदैः प्राक्प्रयत्नात्
सिक्त्वा सिक्त्वा कथम् अपि घटीयन्त्रमुक्तैः पयोभिः ।
नीत्वा चूतं फलसमुदयावाप्तियोग्याम् अवस्थां
तत्र स्नेहं त्यजसि किम् इवोद्यानपाल क्षणेन ॥१९०१॥
कस्यचित् ।
दग्धाः केऽपि दवानलेन कतिचिद् बात्यारयान्दोलनैर्
व्यापन्नाः कुल्तिशाभिघातरुजया केचिद् विसृष्टासवः ।
एकः क्लान्तजनाश्रयो विजयसे चूत त्वम् उर्वीरुहां
धिग् दैवं भवतोऽपि कीटपटलैर् अन्तः प्रवेशः कृतः ॥१९०२॥
वैद्यगदाधरस्य ।
हे चूतद्रुम किं मुधैव मधुपान् प्रीणासि किं कोकिलान्
जल्पन्तो मधुराणि नित्यमलिना नैते चिरस्थायिनः ।
तान् उल्लासय पल्लवान् अनुदिनं यैर् आहिताम् उन्नतिं
बिभ्राणः प्रतिपर्वनिर्भरफलैर् उत्तुङ्गतां यास्यसि ॥१९०३॥
वैद्यत्रिविक्रमस्य ।
यो दृष्टः स्फुटदस्थिसम्पुटमुखान् निर्यत्प्रवालाङ्कुरो
लब्धः स द्विदलादिकक्रमवशाद् आरूढशाकाशतः ।
स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छदं पुष्पितः
सोत्कर्षं फलितो भृशं च विनतः कोऽप्य् एष चूतद्रुमः ॥१९०४॥
कस्यचित् । (शा।प। १०१९, हेतुकस्य; सू।मु। ३३।१७, हर्षस्य; सु।र। ११०४)
सुगन्धिः कोऽपि स्यात् कुसुमसमये कोऽपि विटपी
शलाटौ सामोदः फलपरिणतु कापि सुरभिः ।
प्रसूनप्रारम्भात् प्रभृति फलपाकावधि पुनर्
जगत्य् एकत्रैव स्फुरति सहकारे परिमलः ॥१९०५॥
उमापतिधरस्य ।