छायाम् अस्य निषेव्य पिप्पलतरोर् आकृष्य शाखाः शतं
भुक्तं प्राग् इति लज्जया गजपते किं नात्र विश्रम्यते ।
दैवेनेदृशयोग एव घटितो यत् त्वादृशां कोटिभिस्
तादृक् तादृग् अयं कृतः पुनर् अभूद् एतादृशः पल्लवैः ॥१८९६॥
ईश्वरभद्रस्य ।
सत्यं पिप्पलपादपोत्तम घनच्छायोन्नतेन त्वया
सन्मार्गोऽयम् अलङ्कृतः किम् अपरं त्वं मूर्तिभेदो हरेः ।
किं चान्यत्फलभोगकृष्टमुखरास् त्वाम् आश्रिताः पत्रिणो
यत्पुंस्कोकिलकूजितं विदधते तन् नानुरूपं परम् ॥१८९७॥
शालिकनाथस्य । (सु।र। १०६१, कस्यचित्)
नोन्मीलन्तु नितम्बिनीकरतलस्पर्धाभृतः पल्लवाः
प्रत्युद्यान्तु न वैणनाभिमधुरा मोदाः प्रसूनश्रियः ।
नाभुवन् फलसम्पदो मधुरसप्रस्यन्दभाजस् तथाप्य्
अश्वत्थस्य गतः सुखेन जगतां वन्द्यस्य जन्मग्रहः ॥१८९८॥
उमापतिधरस्य ।
साक्षान् नैष करोति काम् अपि मुदं नादृत्य हन्त्य् आपदो
न प्रीणाति मनीषिणां श्रवणम् अप्य् आश्वासनासूक्तिभिः ।
तस्याम्भोधिसुतापतेर् भगवतोऽधिष्ठानमात्राद् असौ
दुःस्वप्नान् विनिवेदितान् अपहरत्य् अश्वत्थभूमीरुहः ॥१८९९॥
तस्यैव ।
पत्राणि त्रुटितानि कीटपटलैर् आमूलम् उन्मूलिताः
शाखा वन्यमतङ्गजैर् न करभैर् आस्वाद्य मुक्ता त्वचः ।
स्थाणुः केवलम् अस्ति पिप्पलतरोस् तत्रापि शीतातुरैर्
ग्रामीणैः परितः कुठारपतनारम्भः परामृश्यते ॥१९००॥
तस्यैव ।