श्रमच्छित्त्यै छायां भज पथिक हे चन्दनतरोर्
इह व्यालव्रातः पुनर् इति भयं मा खलु कृथाः ।
इदानीम् एतस्मिन् कृतवसतयः सन्ति शिखिनः
स्वनैर् येषां रम्यैर् अपि हि फणिनः क्वाप्य् अपसृताः ॥१८९१॥
अचलसिंहस्य ।
आमोदैस् ते दिशि दिशि गतैर् दूरम् आकृष्यमाणाः
साक्षाल् लक्ष्मीं तव मलयज द्रष्टुम् अभ्यागताः स्मः ।
किं पश्यामः सुभग भवतः क्रीडति क्रोड एव
व्यालस् तुभ्यं भवतु कुशलं मुञ्च नः साधयामः ॥१८९२॥
तस्यैव (शा।प। ९९८, सू।मु। ३३।२४, सु।र। १०७८)
क्षिप्तश् चेन् मलयाचलेन्द्र भवतः पादोपजीवी निजस्
तैर् उत्पाट्य निकुञ्जनिर्झरपयःपूरैः पटीरद्रुमः ।
तन् निर्यातु जहातु पन्नगकुलं तापं निहन्तु श्रियं
धत्तां विन्दतु वन्द्यतां त्रिजगतां त्वत्कीर्तिम् उन्मुद्रयन् ॥१८९३॥
साञ्जानन्दिनः ।
ककुभि ककुभि भ्रामं भ्रामं विलोक्य विलोकितं
मलयजसमो दृष्टोऽस्माभिर् न कोऽपि महीरुहः ।
उपचितरसो दाहे च्छेदे शिलातलघर्षणैर्
अधिकम् अधिकं यत् सौरभ्यं तनोति मनोहरम् ॥१८९४॥
भामहस्य । (सु।र। १०८२)
क्व मलयतटी जन्मस्थानं क्व ते च वनेचराः
क्व खलु परशुच्छेदः क्वासौ दिगन्तरसङ्गतिः ।
क्व च खरशिलापट्टे घृष्टिः क्व पङ्कसरूपता
मलयज सखे मा गाः खेदं गुणास् तव वैरिणः ॥१८९५॥
मलयजस्य । (सु।र। १०५३)