सर्वार्थिनाम् अभिमतानि फलन्न् अपि त्वं
कल्पावनीरुह न मानवताम् उपास्यः ।
यस्मात् त्वया न विहितो विदुषां निःशेषस्
तेषाम् अकारि विफलः सफलः प्रयासः ॥१८८६॥
नाकोकस्य ।
बालवामनवृद्धानां नत्वा यो न फलप्रदः ।
तस्मिन् कल्पतरौ स्तब्धे लब्धेनापि फलेन किम् ॥१८८७॥
राजकुब्जदेवस्य ।
पत्राणि प्रथमं द्रुतानि विकुलैर् उत्खातमूलः क्रमात्
कीटैः कल्पमहीरुहः स पतितो भग्नाः शतं वल्लयः ।
एकेभ्योऽपि पुनः प्ररोहति भृशं तस्याङ्करग्रामणीः
पूर्वाशाधिपतिः प्रसीदति स चेद् देवो दयावान् हरिः ॥१८८८॥
बलभद्रस्य ।
निष्पन्नाः कति नाम नामरपुरोपान्तेषु भूमिरुहः
श्लाघ्यस् तत्र स एव कल्पविटपी यत्रासतेऽमी गुणाः ।
सङ्कल्पाः फलदोहदानि फलितं रत्नानि वृत्तिर् जगत्
क्लेशच्छेदनिदानम् उन्नतिर् अनुल्लङ्घ्या यशो दुर्जयम् ॥१८८९॥
शरणस्य ।
स्वर्णः स्कन्धपरिग्रहो मरकतैर् उन्मीलिताः पल्लवा
मुक्ताभिस्तवकश्रियो मधुलिहां वृन्दानि नीलोपलैः ।
सङ्कल्पानुविधायि यस्य फलितं कस् तस्य धत्ते तुलां
धिग् जातिं द्रुमसङ्कथासु यद् असौ कल्पद्रुमापि द्रुमः ॥१८९०॥
गदाधरनाथस्य । (शा।प। ९८८, सू।मु। ३३।११)