अम्भो भजस्व चिरम् अस्य यथाभिलाषम्
एतन् न ताण्डवय सैरिभ काननं च ।
दुश्चेष्टितेन यदनेन भृशं तवैष
ध्वस्ताशयो भवति निष्कलुषस् तडागः ॥१८७६॥
वैद्यगदाधरस्य ।
नामीभिः प्रसवैः स्वयं निपतितैर् भूमौ विधत्ते धृतिं
नारोढुं परिपाकमेदुरफलाः शक्नोति शाखाशिखाः ।
अप्रज्ञातनिजप्रभावकुपितः कोकूयमानो रुषा
लिप्सुर् वानरसूनुर् एष लवलीक्षोणीरुहं कर्षति ॥१८७७॥
उमापतिधरस्य ।
यच् चाण्डालगृहाङ्गणेषु वसतिः कौलेयकानां कुले
जन्म स्वोदरपूरणं च विघसैर् न स्पर्शयोग्यं वपुः ।
तन् मृष्टं सकलं त्वयाद्य शुनक क्षोणीपतेर् आज्ञया
यत् त्वं काञ्चनशृङ्खलावलयितः प्रासादम् आरोहसि ॥१८७८॥
माधवसेनस्य ।
पूतः श्रौतपरिष्क्रियाभिर् अवहीभावाय यो दीक्षितः
श्लाघ्या यस्य गयाशिरः सहचरी तुल्योऽश्वमेधेन यः ।
म्>अस्>अव् एद्जमतश् चिरेण कलितश् चक्रत्रिशूलाङ्कितो
धिक् कर्माणि तुरुष्कवेश्मनि सुराकाण्डालवाही वृषः ॥१८७९॥
साजोकस्य ।
उच्छ्रायो जनभीति हेतुर् अधिकं वैकृत्यम् उद्ग्रीवता
सर्वत्र प्रतिपर्वविक्रमभवः क्रूरो मरुर्जन्मभूः ।
यस्योच्चैः कटुकण्टकप्रणयिता धिक् कष्टम् उष्ट्रे पशौ
तस्मिन् राजपरिग्रहः स च महाशब्दद्वयीभाजनम् ॥१८८०॥
गोविन्दस्य ।