अनुगृहाण शिशून् अभिलङ्घिता
शबरवारिविहारवनस्थली ।
विसृज कातरताम् इदम् अग्रतो
हरिनि कारुणिकस्य तपोवनम् ॥१८७१॥
कस्यचित् ।
हरिणि भिल्लसमाजसमाकुलं
व्रज सरोऽथ किम् अत्र विलम्बसे ।
विशति पातुम् अपो न तपोवनाद्
इदम् अभक्ष्यपला कपिलापि गौः ॥१८७२॥
चपलदेवस्य ।
हरिणि सानुनि मानुषवर्जिते
चर विसृज न निर्भरम् अर्भकान् ।
तव तरक्षुकुलक्षुभितोदरे
वसुमतीभृति निर्वृतिर् एव का ॥१८७३॥
तस्यैव ।
इह निभृतनिपातमूकपादं
वलयितकार्मुकवल्लयः किराताः ।
भवदलसविलोकनानभिज्ञा
मृगगृहिणि प्रहरन्ति गच्छ दूरम् ॥१८७४॥
मन्दोकस्य ।
आदाय मांसम् अखिलं स्तनवर्जम् अङ्गान्
मां मुञ्च वागुरिक यामि कुरु प्रसादम् ।
सीदन्ति शष्पकवलग्रहणानभिज्ञा
मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥१८७५॥
छित्तिपस्य । (स्व् ६६०, शा।प। ४०१५, सू।मु। ९०।१)