०४६ दावोपहतमृगः

गर्भक्लान्तिभरालसां घनमरुद्व्यालोलदावानल
ज्वालाजालसमाकुलां सहचरीम् आलोक्य लोलेक्षणाम् ।
वेगाद् दूरविनिर्गतोऽपि सपदि व्यावृत्य धावन् मृगो
गच्छन्तीं स्मृतिशेषताम् उपगतः स्नेहस्य किं दुष्करम् ॥१८६६॥

सुरभेः ।

चिरयति हरिणी हरन्ति जीवं
शबरशरास् तरुवह्नयः स्फुरन्ति ।
इति बत हरिणः क्षणं वनान्तर्
विशति विषीदति मूर्च्छति प्रयाति ॥१८६७॥

जलचन्द्रस्य ।

मृग विसृज विषादं दग्धवल्मीककूट
स्फुटनकटुविगन्धो नश्वरोऽयं हुताशः ।
जलधरजलधारोत्कण्ठिसारङ्गतृष्णा
च्छिदुरमुदिरमालामेदुरा द्यौर् इदानीम् ॥१८६८॥

धर्मयोगेश्वरस्य ।

इतो दावज्वाला स्थलभुव इतो जालजटिला
इतो व्याधो धावत्य् अयम् अनुपदं चक्रितधनुः ।
इतोऽप्य् अग्रे तिष्ठत्य् अयम् अजगरो विस्तृतमुखः
क्व यायात् किं कुर्यान् मृगशिशुर् अयं दैववशगः ॥१८६९॥

कस्यचित् । (सु।र। १५०८)

व्योमार्धे ज्वलितो रविः कवलितं दावानलैः काननं
धूम्याभिर् न दिशः स्फुरन्ति परितः पन्थाः शिलादन्तुरः ।
इत्थं शोणितसिक्तसृक्कणि यथा प्राणं मृगे धावति
व्याधेनापि शरासने करुणया नारोपिताः पत्रिणः ॥१८७०॥

उमापतिधरस्य । (सू।मु। २६।८)