त्यक्तं जन्मवनं तृणाङ्करवती मातेव मुक्ता स्थली
विश्रामस्थितिहेतवो न गणिता बन्धूपमाः पादपाः ।
बालापत्यवियोगकातरमुखी त्यक्तार्धमार्गे मृगी
मृग्यन्तः पदवीं तथाप्य् अकरुणा व्याधा न मुञ्चन्ति माम् ॥१८६१॥
धर्मपालस्य । (स्व् ६५४, मुक्तापीडस्य)
छित्त्वा पाशम् अपास्य कूटरचनां भित्त्वा बलाद् वागुरां
पर्यन्ताग्निकलापजालकुटिलान् निर्गत्य दूरं वनात् ।
व्याधानां शरगोचराद् अतिजवेनोत्प्लुत्य गच्छन् मृगः
कूपान्तःपतितः करोतु विगुणे किं वा विधौ पौरुषम् ॥१८६२॥
कस्यचित् । (स्व् ६५५, मुक्तापीडस्य; शा।प। ९४०, सु।र। १४९३, कस्यचित्)
प्रियायां स्वैरायाम् अतिकठिनगर्भालसतया
किराते चाकर्णं धृतधनुषि धावत्य् अनुपदम् ।
प्रियाप्रेमप्राणप्रतिभयवशाकृतविकलो
मृत्गः पश्चाद् आलोकयति च मुहुर् याति च मुहुः ॥१८६३॥
कालिदासस्य । (सु।र। ११६९, कस्यचित्)
भुवो वन्या मग्नाः शिशुर् अयम् अदृष्टव्यतिकरः
कुरङ्गो हन्तारः सविध इति सन्तापतरलः ।
अये नौकारूढ प्रतिकृतिमतिस् त्वन्मुखम् अहो
मुहुः पश्यन् मज्जत्य् अकरुण तथापि प्रहरसि ॥१८६४॥
तिलचन्द्रस्य ।
यद्य् एतद् विपिनं विपन्नम् अहह क्षुण्णं किम् एतत् सरस्
तच् चेत् किं पुनर् अग्रतो ननु धनुर् ध्वानः पटीयान् अयम् ।
अद्य श्वो विजनिष्यमाणहरिणीसञ्चारचिन्ताचमत्
कारक्लान्तमना मनाग् अवनतग्रीवो मृगस् ताम्यति ॥१८६५॥
तस्यैव ।