रे रेवातटकेलिलम्पटवप्ः शोकं वृथा मा कृथाः
कुम्भिन् कुम्भसमाहृतं पिब पयो बन्ध्यैव विन्ध्यस्मृतिः ।
ताभिः काननकुञ्जरीभिर् अधुना दैवेन दूरीकृतो
वेल्लत्पल्लवशल्लकीवनलताकुञ्जेषु ते विभ्रमः ॥१८५१॥
कङ्कणस्य ।
घासग्रासं गृहाण त्यज गजकलभ प्रेमबन्धं करिण्यां
पाशग्रन्थिव्रणानाम् अविरतम् अधुना देहि पङ्कानुलेपम् ।
दूरीभूतास् तवैते शवरवरवधूविभ्रमोद्भ्रान्तदृष्टा
रेवातीरोपकण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः ॥१८५२॥
भर्तृमेण्ठस्य । (स्व् ६४०, हस्तिपकस्य; शा।प। ९२८, कस्यचित्)
त्यक्तो विन्ध्यगिरिः पिता भगवती मातेव रेवानदी
ते ते स्नेहनिबन्धबन्धुरधियस् तुल्योदया दन्तिनः ।
त्वल्लोभान् ननु हस्तिनि स्वयम् इदं बन्धाय दत्तं वपुस्
त्वं दूरे ध्रियसे लुठन्ति च शिरःपीठे कठोराङ्कुशाः ॥१८५३॥
तस्यैव ।
नो मन्ये दृढबन्धनक्षतम् इदं नैवाङ्क्शोद्घाटनं
स्कन्धारोहणताडनात् परिभवं नैवान्यदेशागमम् ।
चिन्तां ये जनयन्ति चेतसि परं स्मृत्वा स्वयूथं वने
सिंहत्रासितभीतभीरुकलभा यास्यन्ति कस्यान्तिकम् ॥१८५४॥
पाम्पाकस्य । (शा।प। ९३४)
अयि क्षुद्रो माभून् मतिमहिमगर्वो मनसि वः
करी यातो बन्धं यद् इह विनयस् तत्र विजयी ।
अयं क्रोधाध्मातस् त्यजति विनयं चेन् मदवशात्
ततः स्कन्धावारं न किम् अखिलम् एवाकुलयति ॥१८५५॥
त्रिपुरारिपालस्य ।