इह व्याधव्यूहः पटुघटितयन्त्रप्रहरणो
मृगेन्द्राणां वल्गत् प्रखरनखराणां कुलम् इह ।
इहालङ्घ्यः शैलो बहलतरपङ्का सरिद् इह
प्रदीप्तोऽग्निर् मध्येवनम् अहह कष्टं करिपतेः ॥१८३६॥
कस्यचित् ।
करिन् मा गर्जोच्चैर् मूगपतिर् इहास्तेऽतिनिकटे
न दृष्टस् त्वं दैवाद् अपसर सुदूरं द्रुतम् इतः ।
न किं पश्यस्यग्रे खरनखरनिर्दारितकरि
प्रकीर्णास्थिश्रेणीधवलितम् इमं शैलकटकम् ॥१८३७॥
सङ्ग्रामचन्द्रस्य ।
एतस्मिन् घनबद्धसम्पदि वनोत्सङ्गे नवाप्तोष्मभिः
स्वच्छन्दं गमितः सुखेन कतिभिः कालो न दन्तावलैः ।
धिग् जातोऽसि तदात्र दग्धसमये दन्तिन् यदा नोदकं
नो वृक्षा न तृणानि केवलम् अयं दावानलः क्रीडति ॥१८३८॥
वैद्यगदाधरस्य ।
हे नागेन्द्र पुलिन्दपत्तनम् इतः पार्श्वे सुदूरे गिरिर्
वल्मीकस्य न कस्यचित् तव पदारोपान् न रूपान्तरम् ।
वन्यामग्नकरेणुकारुणिकताम् आस्थाय मास्थाः स्थलीर्
मा लुम्पन्ति पुरा पुराट्टविनटत्पूरोच्चया वीचयः ॥१८३९॥
तैलपाटीयगाङ्गोकस्य ।
मदसलिलकृतान्ध्यैः षट्पदैर् जातलील
व्रज गज वनम् अन्यच् चण्डशाखिप्रकाण्डम् ।
इह बहलपलाशोद्दामरम्ये तवासौ
न खलु कदलषण्डे गण्डकण्डूविनोदः ॥१८४०॥
गुरोः ।