उन्मुक्तक्रमहारिशैलशिखरात् क्रामन्तम् अन्यो धरः
कोऽत्र त्वां शरभीकिशोरपरिषद्धौरेय धर्तुं क्षमः ।
तस्माद् उद्गमकेलिलङ्घनकलाद् उर्वीतलाद् उद्व्रज
त्वद्वासाय स एव कीर्तिकनकज्योत्स्नो गिरीणां पतिः ॥१८११॥
वल्लणस्य । (सु।र। १०५६)
यस्यानुद्धुरगन्धवातकणिकातङ्कार्तिनानादरी
कोणोदञ्चदुरोनिगूहितशिरःपुच्छा हरीणां गणाः ।
दृप्यद्दुर्जयगन्धसिन्धुरजयोत्खातेन का मे स्तुतिः
स्मेरोऽयं शरभः परां हृदि घृणाम् आयाति जातस्मयः ॥१८१२॥
तस्यैव । (सु।र। १०४६)
अपि मृगपतिना करीन्द्रकुम्भस्थल
दलनोद्गतपौरुषेण यस्य ।
भयचकितदृशा प्रनष्टम् उच्चैः
स हि शरभीकुलराजचक्रवर्ती ॥१८१३॥
माधवस्य ।
यः पृथ्वीवलयेषु विर्कमकथासीमास्थितिर् लाघव
क्रीडान्यक्कृतमारुतिर् मृगपतेर् निःसीमदर्पज्वरः ।
तादृक् तादृग् उदञ्चदञ्चितचयैर् आश्चर्यकारी दिशाम्
ईशानां सरभः कथं स हि भवेद् अर्वाग् गिरां गोचरः ॥१८१४॥
मकरन्दस्य ।
नखज्योत्स्नागुच्छस्नपितगजगण्डस्थलभिदां
मृगेन्द्राणां जेतुस् तव समरभूमिषु शतशः ।
हते वा नीते वा बत लघुतरां शोच्यपदवीं
शुनीनां नाथेऽस्मिन् सरभ रभसस्यानवसरः ॥१८१५॥
कस्यचित् ।