०३३ पर्वतः

कैलास रे पशुपतिस्थितिपात्रमात्र
संरूढगर्वम् इह पर्वत सन्त्यजाशु ।
दृष्टोऽसि किं नहि सलीलसमुत्थितैक
पौलस्त्यहस्तकमलोपरि पुष्कराभः ॥१८०१॥

दामोदरस्य ।

मुरारातिर् लक्ष्मीं त्रिपुरविजयी शीतकिरणं
करीन्द्रं पौलोमीपतिर् अपि च लेभे जलनिधेः ।
त्वया किं तल्लब्धं कथय मथितो मन्दरगिरे
शरण्यः शैलानां यद् अयम् अदयं रत्ननिलयः ॥१८०२॥

कामदेवस्य । (शा।प। १०६८)

दृष्टा न द्विरदावली न चमरीपुच्छानिलः सेवितो
नैवासादि कदापि मौलिसविधे छत्रायमाणः शशी ।
नीताः क्षौणिभृतो न पादपदवीं धिग् दैवम् अम्भोनिधौ
मग्नस्यैव गिरीन्द्रपुत्र भवतो मैनाक यातं वयः ॥१८०३॥

वैद्यगदाधरस्य ।

एकस्यायम् उदेति मूर्धनि गिरेर् अन्यस्य चैव क्रमाद्
अस्तं याति कलानिधिस् तद् अनयोर् अस्तः प्रशस्तोऽचलः ।
को नामोदयिनं करोति न शिरोमाणिक्यम् अस्तं पुनर्
यातं यः कुरुते भवान् इव स दुष्प्रापोऽयम् उच्चैः शिराः ॥१८०४॥

पुण्डरीकस्य । (शा।प। १०७९, सू।मु। ३६।१५)

ध्वान्तास्कन्दितलोकलोचनजगज्जीवातुमुद्गत्वरं
सूरं मूर्ध्नि दधातु पूर्वशिखरी नैवात्र चित्रोदयः ।
प्राप्तास् तं दिवसे गतायुषि परिक्षीणांशुम् एतं पुनः
कुर्वन् मौलिगतं करोति चरमश् चित्रं धरित्रीधरः ॥१८०५॥

मुद्राङ्कस्य ।