०३० पङ्कजमधुपः

त्वल्लीलातरलेन मत्तकरिणा रुग्णे च पद्माकरे
प्राणास् ते यदि वल्लभास् तद् अपि किं निष्पङ्कजा मेदिनी ।
दूरीकृत्य तु पङ्कजं मधुप हे तस्यैव यद् गण्डयोर्
दानाम्भौ निरतोऽसि तद् वयम् अहो वक्तुं च लज्जामहे ॥१७८६॥

जलचन्द्रस्य ।

हुताशज्वालाभे स्थितवति रवाव् अस्तशिखरे
पिपासुः किञ्जल्कं प्रविशति सरोजं मधुकरः ।
तदन्तःसंरोधं न गणयति सन्ध्यासमयजं
जनोऽर्थी नायासं गणयति किलैकान्ततृषितः ॥१७८७॥

कस्यचित् । (स्व् १९१७)

विगलतु नाम मधूकं
परिणतिम् अभ्येतु हन्त सहकारः ।
न मधुदरिद्रो मधुपः
शङ्के पङ्केरुहे जयति ॥१७८८॥

जह्नोः ।

अमीषाम् आमोदप्रणयसुभगं सङ्गतम् अभूत्
प्रसूनैर् उन्निद्रैः सह बहुभिर् एव प्रतिवनम् ।
उदन्या न क्वापि व्यरमद् अरविन्दे परम् अमी
पिबन्ति स्वच्छन्दं रसम् उदर०पूरं मधुलिहः ॥१७८९॥

शाटोकस्य ।

इह परिमलो यत्र व्यक्तो न तत्र मधुश्रियो
मधु समधिकं यस्मिंस् तस्मिन् न गन्धसमृद्धयः ।
इति मरुवकं निन्दन् कुन्दाद् अपेतकुतूहलः
कमलम् अधिकं स्मारं स्मारं विषीदति षट्पदः ॥१७९०॥

उमापतिधरस्य ।