०२७ पद्मम्

दर्पोत्सेकभृताम् असाधु चरितं प्रायेण लक्ष्मीभृताम्
आमूलं गुणसङ्ग्रहात् तु नलिन त्वच्चेष्टितं किं स्तुमः ।
यच् छुष्के सरसि प्रयासि विदशां संवासमर्यादया
सम्पूर्णे कमनीयकोमलदलं भासि प्रवृद्धाङ्कुरम् ॥१७७१॥

वसन्तदेवस्य ।

कासारशोषिणि नवोदयमानमुग्ध
सद्वर्तिकानिवहदाहिनि दारुणेऽपि ।
मध्यन्दिनोष्णकिरणे प्रतिपन्नसख्य
स्मेरं सुखं जयति चित्रचरित्रम् अब्जम् ॥१७७२॥

योगेश्वरस्य ।

धिक् कुर्मोऽस्य मधुव्रतस्य चरितं दोषातनीं दुर्दशां
दृष्ट्वा यस् तव पद्मषण्डकुमुदैर् धत्ते रहस् ताण्डवम् ।
श्लाघ्यस् तं पुनर् एक एव यद् इह प्रातः समभ्यागते
तान्य् एवोल्लसितानि सैव सखिता तच् चैव कोषार्पणम् ॥१७७३॥

वैद्यगदाधरस्य ।

अत्रैव सरसि जातं विकसितम्
अत्रैव निर्भरं नलिनैः ।
कालवशागततुहिनैर्
विलीनम् अत्रैव हा कष्टम् ॥१७७४॥

कस्यचित् ।

कान्तिस् ते यदि निर्मला यदि गुणा लक्ष्मीर् यदि स्थायिनी
मा गाः पद्म मदं तथापि गलिता ह्य् एते शरद्वासराः ।
संस्पर्शेन तुषारवारिपृषताम् आलूनमूर्तेः सरो
मध्येऽत्रैव वराटकेन भवतः स्थेयं पुनः केवलम् ॥१७७५॥

उमापतिधरस्य ।