अपि नदथ निकामं दर्दुराः किं सुवर्ण
द्युतिभरम् उपनीता नूतनैर् वारिपूरैः ।
अयम् अचिरविनाशी शोचनीयस् तु भावी
स चिरम् अवटसीम्नि प्राच्य एव क्रयो वः ॥१७६६॥
नाकोकस्य ।
इयत् पृथ्वीमात्रं तद् अनु च नभोमण्डलम् इयद्
इयान् पातालान्तो जलम् अपि पृथिव्याम् इयद् इति ।
इति ज्ञात्वा कूपे विदितविषयो नायम् अपरः
परं मुग्धो भेकः प्रबलतररावं प्रकुरुते ॥१७६७॥
जयनन्दिनः ।
किं नाम दर्दुर दुरध्यवसाय सायं
कायं निपीड्य निनदं कुरुषे रुषेव ।
किं तानि केलिर् असितानि सितच्छदानाम्
आकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥१७६८॥
कस्यचित् । (सू।मु। ३६।४९)
श्रुत्वा कुम्भभुवो मुनेर् इह दुराचारं कम् अप्य् अद्भुतं
सिन्धोर् अन्धुकुटुम्बि दर्दुरकुलं हर्षाद् इदं ध्यायति ।
गाम्भीर्याद् यदि ते न बिभ्यति न वा त्रस्यन्ति भेकीशिशोर्
अत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम् ॥१७६९॥
जलचन्द्रस्य ।
भेकेन क्वणता सरोषपरुषं यत् कृष्णसर्पानने
दातुं कर्णचपेटम् उज्झितभिया हस्तः समुल्लासितः ।
यच् चाधोमुखम् अक्षिणी विदधता नागेन तूष्णीं स्थितं
तन् मन्ये विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥१७७०॥
तस्यैव । (स्व् १०१९, शा।प। ११७७)