पाठीन मुञ्च कुन्ददं यद् इहाम्बु पीत्वा
मिश्रं निरन्तरपतत्तटभूमिपङ्कैः ।
उन्मज्जतस् तव पतिष्यति कोमलायां
गाढं तनौ कुररचञ्चुशरप्रहारः ॥१७५६॥
वसन्तदेवस्य ।
क्व शकुलशिशो गम्भीराम्भः सरस् तव जन्मभूः
क्व च नवजलक्रीडारम्भाद् इयं तटसङ्गतिः ।
तद् इह विवरे नीत्वात्मानं कुलीरविवर्जिते
विगमय दिनं यावच् चास्ते बकोटकुटुम्बकम् ॥१७५७॥
भास्करदेवस्य ।
विषमविषधरप्रगाढघोरे
सरसि सरस्य् अपि निःस्पृहोऽसि जीवे ।
शफर परिहरेदम् आत्मदेह
स्थितिम् अनुचिन्तयतः क्व नास्ति सौख्यम् ॥१७५८॥
कविचक्रवर्तिनः ।
शफर संहर चञ्चलताम् इमां
चिरम् अगाधजलप्रणयी भव ।
इह हि कोमलवञ्जुलजालके
वसति दुष्टबकोटकुटुम्बकम् ॥१७५९॥
अभिनन्दस्य ।
सरोरत्नाद् अस्मात् सफर तव तीरावतरण
प्रणालीसञ्चारव्यसनम् अशुभं ते कथम् अभूत् ।
अहो मुग्धेदानीं निजदुरुपचारव्यवसितां
कुवेणीबद्धः सन्न् अनुभव दशाम् उत्फलसि किम् ॥१७६०॥
कस्यचित् ।