०२१ सरः

मञ्जुस्वनाः शकुनयः सुभगोऽवतारो
रम्यं च शाद्वलम् अधस् तटपादपानाम् ।
इत्य् आदि साधु सकलं कमलाकरस्य
किं त्व् आविलं जनितम् अम्बु नवोदकेन ॥१७४१॥

मङ्गलस्य ।

प्रतिविपिनम् अनिन्द्यस्वादुविस्फारवारि
प्रविचरदुरुपत्रिव्यूहनिर्वाहभाजः ।
कति न कति तडागाः सन्ति किन्त्व् अस्य हंस
प्रवर वहति कस् ते मानसस्य प्रतिष्ठाम् ॥१७४२॥

कस्यचित् ।

वारां धारणम् अध्वनीनविधुरच्छेदाय भृङ्गस्रजां
हर्षायाम्बुजसञ्चयः सितगरुत्प्रीत्यै मृणालग्रहः ।
का वा तस्य कथार्घितस्य सरसो यत् तीरजन्माप्य् असौ
दूराद् एव दृशोः श्रमं हरति नः स्निग्धावलोकस् तरुः ॥१७४३॥

वैद्यगदाधरस्य ।

अमीषाम् उष्णांशोः किरणनिकराणां परिचयात्
सरस् तीक्ष्णं मा भूस् तव किल निसर्गः शिशिरिमा ।
दुरात्मानो ह्य् एते कतिपयपयोबिन्दुरसिकान्
निरस्यन्तः पान्थांस् त्वयि किम् अपि शोषं विदधति ॥१७४४॥

उमापतिधरस्य ।

सलीलं हंसानां पिबति निवहो यत्र विमलं
जलं मोहात् तस्मिन् सरसि रुचिरे चातकयुवा ।
स्वभावाद् गर्वाद् वा न पिबति पयस् तस्य शकुनैः
किम् एतेनोच्चैस् त्वं भवति लघिमा वापि सरसः ॥१७४५॥

शकटीयशवरस्य । (सु।र। १०७०, कस्यचित्)

२२।शुष्कसरः

निःसारितेऽम्भसि कृषीबलमण्डलेन
कोलव्रजैः कवलितासु मृणालिकासु ।
तीरद्रुमे दवहतेऽद्य सखेऽध्वनीन
शोकाय केवलम् अलोकि सरस् त्वयेदम् ॥१७४६॥

वैद्यगदाधरस्य ।

कासारे मदमत्तवारणगणैर् आकुम्भमग्नं पयः
पीतं यत् प्रभवोरुवीचिवलनैर् व्याप्तं समस्तं जगत् ।
तस्मिन्न् एव रवेः प्रचण्डकिरणश्रेणीनिपीताम्भसि
प्राप्ताः पान्थनखम्पचाः प्रतिपदं मध्यस्थलीभूमयः ॥१७४७॥

माधवस्य ।

स्थलं पाशैर् व्याप्तं प्रबलपवनैर् अम्बुजवनं
जलं क्षीणप्रायं विवरशरणं च्âण्डजकुलम् ।
इदानीम् एतस्मिन् सरसि चिरसेवाप्रणयिनां
विहङ्गानां भावी स खलु पुटपाकव्यतिकरः ॥१७४८॥

कस्यचित् ।

वातैः शीकरवर्षिभिः श्रुतिसुखैर् हंसावलीनिस्वनैर्
उन्निद्रैः कमलैः पयोभिर् अमलैर् नीत्वा परां निर्वृतिम् ।
पश्चात् क्षीणधनां वहन् निजतनुं धन्यो मृणालीच्छलाद्
अर्थिभ्यः प्रददौ नवेन्दुविशदान्य् अस्थीनि पद्माकरः ॥१७४९॥

भव्यस्य । (सु।र। १६५७, कस्यचित्)

मदोष्णप्रागल्भ्याद् वनकरिघटा यत्र विमले
ममज्जुर् निःशङ्कं तटनिकट एवोन्नतकराः ।
गते शोषं दैवाद् वरसरसि तत्रैव तरला
बकग्रासत्रासाद् विशति शफरी पङ्कम् अधुना ॥१७५०॥

मधुरशीलस्य । (सु।र। १०४३, कस्यचित्)