एते नर्तितमौलयो गुणगणप्रस्तावनाभिर् मणेर्
जायन्तां वणिजो वयं तु कनक त्वत्कीर्तिवैतालिकाः ।
ते चाम्लानमुखेन हन्त भवता दाहच्छिदा वेदनाम्
अङ्गीकृत्य नरेन्द्रशेखरसुखासीनाः क्रियन्ते यतः ॥१७३१॥
जलचन्द्रस्य ।
स्तोत्राक्षराणि पठितानि बलिः प्रणीतः
क्ÿप्तोञ्जलिर् विरचितो बहुशः प्रणामः ।
किं कुर्महे तद् अपि हेमनिधे भवन्तं
दत्ते न वीक्षितुम् अपीह स दग्धयक्षः ॥१७३२॥
वैद्यगदाधरस्य ।
अदयं घर्ष शिलायां दह वा दाहेन भिन्धि लौहेन ।
हे हेमकार कनकं म मां गुञ्जाफलैस् तुलय ॥१७३३॥
कस्यचित् ।
दाहच्छेदननिकषैर्
अतिशुद्धस्यापि रे वृथा गरिमा ।
यद् असि तुलाम् अधिरूढं
काञ्चन गुञ्जाफलैः सार्धम् ॥१७३४॥
बाणस्य । (सु।र। १११७)
यद् धृष्टं निकषोपलेप्यमलिनं यट् टङ्किकानिर्दय
व्यापारेऽप्य् अविकारि यच् च शिखिनि क्षिप्तं च न म्लायसि ।
एतस्याम् अपि शुद्धिसम्पदि तुलाम् आरोप्य यत् साधुभिर्
गुञ्जाभिः समकक्षाम् इत्य् अवधृतं हा स्वर्ण किं चेष्ट्यताम् ॥१७३५॥
बलभद्रस्य ।